ऋषिः - बृहद्दिवोऽथर्वा

देवता - वरुणः

छन्दः - त्रिष्टुप्

स्वरः - अमृता सूक्त

PreviousNext
स्वर सहित मन्त्र

स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मिदेका॑म॒भ्यं॑हु॒रो गा॑त्। आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒डे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥

स्वर सहित पद पाठ

स॒प्त । म॒र्यादा॑ः । क॒वय॑ः । त॒त॒क्षु॒ः । तासा॑म् । इत् । एका॑म् । अ॒भि । अं॒हु॒रः । गा॒त् । आ॒योः । ह॒ । स्क॒म्भः । उ॒प॒मस्य॑ । नी॒डे । प॒थाम् । वि॒ऽस॒र्गे । ध॒रुणे॑षु । त॒स्थौ॒ ॥१.६॥


स्वर रहित मन्त्र

सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्। आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ ॥


स्वर रहित पद पाठ

सप्त । मर्यादाः । कवयः । ततक्षुः । तासाम् । इत् । एकाम् । अभि । अंहुरः । गात् । आयोः । ह । स्कम्भः । उपमस्य । नीडे । पथाम् । विऽसर्गे । धरुणेषु । तस्थौ ॥१.६॥