ऋषिः - बृहद्दिवोऽथर्वा

देवता - वरुणः

छन्दः - त्रिष्टुप्

स्वरः - अमृता सूक्त

PreviousNext
स्वर सहित मन्त्र

आ यो धर्मा॑णि प्रथ॒मः स॒साद॒ ततो॒ वपूं॑षि कृणुषे पु॒रूणि॑। धा॒स्युर्योनिं॑ प्रथ॒म आ वि॑वे॒शा यो वाच॒मनु॑दितां चि॒केत॑ ॥

स्वर सहित पद पाठ

आ । यः । धर्मा॑णि । प्र॒थ॒मः । स॒साद॑ । तत॑ः । वपूं॑षि । कृ॒णु॒षे॒ । पु॒रूणि॑ । धा॒स्युः ।योनि॑म् । प्र॒थ॒मः । आ । वि॒वे॒श॒। आ । यः । वाच॑म् । अनु॑दिताम् । चि॒केत॑॥१.२॥


स्वर रहित मन्त्र

आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि। धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत ॥


स्वर रहित पद पाठ

आ । यः । धर्माणि । प्रथमः । ससाद । ततः । वपूंषि । कृणुषे । पुरूणि । धास्युः ।योनिम् । प्रथमः । आ । विवेश। आ । यः । वाचम् । अनुदिताम् । चिकेत॥१.२॥