ऋषिः - भृगुः

देवता - त्रैककुदाञ्जनम्

छन्दः - अनुष्टुप्

स्वरः - आञ्जन सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑सन्म॒न्त्राद्दु॒ष्वप्न्या॑द्दुष्कृ॒ताच्छम॑लादु॒त। दु॒र्हार्द॒श्चक्षु॑षो घो॒रात्तस्मा॑न्नः पाह्याञ्जन ॥

स्वर सहित पद पाठ

अ॒स॒त्ऽम॒न्त्रात् । दु॒ःऽस्वप्न्या॑त् । दु॒ःऽकृ॒तात् । शम॑लात् । उ॒त । दु॒ःऽहार्द॑ः । चक्षु॑षः । घो॒रात् । तस्मा॑त् । न॒ः । पा॒हि॒ । आ॒ऽअ॒ञ्ज॒न॒ ॥९.६॥


स्वर रहित मन्त्र

असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत। दुर्हार्दश्चक्षुषो घोरात्तस्मान्नः पाह्याञ्जन ॥


स्वर रहित पद पाठ

असत्ऽमन्त्रात् । दुःऽस्वप्न्यात् । दुःऽकृतात् । शमलात् । उत । दुःऽहार्दः । चक्षुषः । घोरात् । तस्मात् । नः । पाहि । आऽअञ्जन ॥९.६॥