ऋषिः - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
स्वरः - आञ्जन सूक्त
आ । इ॒हि॒ । जी॒वम् । त्राय॑माणम् । पर्व॑तस्य । अ॒सि॒ । अक्ष्य॑म् । विश्वे॑भिः । दे॒वैः । द॒त्तम् । प॒रि॒ऽधिः । जीव॑नाय । कम् ॥९.१॥
आ । इहि । जीवम् । त्रायमाणम् । पर्वतस्य । असि । अक्ष्यम् । विश्वेभिः । देवैः । दत्तम् । परिऽधिः । जीवनाय । कम् ॥९.१॥