ऋषिः - गरुत्मान्

देवता - तक्षकः, ब्राह्मणः

छन्दः - अनुष्टुप्

स्वरः - विषघ्न सूक्त

PreviousNext
स्वर सहित मन्त्र

ब्रा॑ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः। स सोमं॑ प्रथ॒मः प॑पौ॒ स च॑कारार॒सं वि॒षम् ॥

स्वर सहित पद पाठ

ब्रा॒ह्म॒णः । ज॒ज्ञे॒ । प्र॒थ॒मः । दश॑ऽशीर्षः । दश॑ऽआस्यः । सः । सोम॑म् । प्र॒थ॒मः । प॒पौ॒ । सः । च॒का॒र॒ । अ॒र॒सम् । वि॒षम् ॥६.१॥


स्वर रहित मन्त्र

ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः। स सोमं प्रथमः पपौ स चकारारसं विषम् ॥


स्वर रहित पद पाठ

ब्राह्मणः । जज्ञे । प्रथमः । दशऽशीर्षः । दशऽआस्यः । सः । सोमम् । प्रथमः । पपौ । सः । चकार । अरसम् । विषम् ॥६.१॥