atharvaveda/4/5/7

स्वप्न॑ स्वप्नाभि॒कर॑णेन॒ सर्वं॒ नि ष्वा॑पया॒ जन॑म्। ओ॑त्सू॒र्यम॒न्यान्त्स्वा॒पया॑व्यु॒षं जा॑गृताद॒हमिन्द्र॑ इ॒वारि॑ष्टो॒ अक्षि॑तः ॥

स्वप्न॑ । स्व॒प्न॒ऽअ॒भि॒कर॑णेन । सर्व॑म् । नि । स्वा॒प॒य॒ । जन॑म् । आ॒ऽउ॒त्सू॒र्यम् । अ॒न्यान् । स्वा॒पय॑ । आ॒ऽव्यु॒षम् । जा॒गृ॒ता॒त् । अ॒हम् । इन्द्र॑:ऽइव । अरि॑ष्ट: । अक्षि॑त: ॥५.७॥

ऋषिः - ब्रह्मा

देवता - वृषभः, स्वापनम्

छन्दः - पुरस्ताज्ज्योतिस्त्रिष्टुप्

स्वरः - स्वापन सूक्त

स्वर सहित मन्त्र

स्वप्न॑ स्वप्नाभि॒कर॑णेन॒ सर्वं॒ नि ष्वा॑पया॒ जन॑म्। ओ॑त्सू॒र्यम॒न्यान्त्स्वा॒पया॑व्यु॒षं जा॑गृताद॒हमिन्द्र॑ इ॒वारि॑ष्टो॒ अक्षि॑तः ॥

स्वर सहित पद पाठ

स्वप्न॑ । स्व॒प्न॒ऽअ॒भि॒कर॑णेन । सर्व॑म् । नि । स्वा॒प॒य॒ । जन॑म् । आ॒ऽउ॒त्सू॒र्यम् । अ॒न्यान् । स्वा॒पय॑ । आ॒ऽव्यु॒षम् । जा॒गृ॒ता॒त् । अ॒हम् । इन्द्र॑:ऽइव । अरि॑ष्ट: । अक्षि॑त: ॥५.७॥


स्वर रहित मन्त्र

स्वप्न स्वप्नाभिकरणेन सर्वं नि ष्वापया जनम्। ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥


स्वर रहित पद पाठ

स्वप्न । स्वप्नऽअभिकरणेन । सर्वम् । नि । स्वापय । जनम् । आऽउत्सूर्यम् । अन्यान् । स्वापय । आऽव्युषम् । जागृतात् । अहम् । इन्द्र:ऽइव । अरिष्ट: । अक्षित: ॥५.७॥