ऋषिः - ब्रह्मा

देवता - वृषभः, स्वापनम्

छन्दः - भुरिगनुष्टुप्

स्वरः - स्वापन सूक्त

PreviousNext
स्वर सहित मन्त्र

न भूमिं॒ वातो॒ अति॑ वाति॒ नाति॑ पश्यति॒ कश्च॒न। स्त्रिय॑श्च॒ सर्वाः॑ स्वा॒पय॒ शुन॒श्चेन्द्र॑सखा॒ चर॑न् ॥

स्वर सहित पद पाठ

न । भूमि॑म् । वात॑ः । अति॑ । वा॒ति॒ । न । अति॑ । प॒श्य॒ति॒ । कः । च॒न । स्रिय॑ः । च॒ । सर्वा॑ः । स्वा॒पय॑ । शुन॑ः । च॒ । इन्द्र॑ऽसखा । चर॑न् ॥५.२॥


स्वर रहित मन्त्र

न भूमिं वातो अति वाति नाति पश्यति कश्चन। स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन् ॥


स्वर रहित पद पाठ

न । भूमिम् । वातः । अति । वाति । न । अति । पश्यति । कः । चन । स्रियः । च । सर्वाः । स्वापय । शुनः । च । इन्द्रऽसखा । चरन् ॥५.२॥