ऋषिः - शुक्रः

देवता - यमः

छन्दः - जगती

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

ये द॑क्षिण॒तो जुह्व॑ति जातवेदो॒ दक्षि॑णाया दि॒शोऽभि॒दास॑न्त्य॒स्मान्। य॒ममृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ॥

स्वर सहित पद पाठ

ये । द॒क्षि॒ण॒तः । जुह्व॑ति । जा॒त॒ऽवे॒द॒ः । दक्षि॑णायाः । दि॒शः । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । य॒मम् । ऋ॒त्वा । ते॒ । परा॑ञ्चः । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ ।‍ ह॒न्मि॒ ॥४०.२॥


स्वर रहित मन्त्र

ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान्। यममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥


स्वर रहित पद पाठ

ये । दक्षिणतः । जुह्वति । जातऽवेदः । दक्षिणायाः । दिशः । अभिऽदासन्ति । अस्मान् । यमम् । ऋत्वा । ते । पराञ्चः । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण ।‍ हन्मि ॥४०.२॥