atharvaveda/4/40/1

ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥

ये । पु॒रस्ता॑त् । जुह्व॑ति । जात॒ऽवे॒द॒: । प्राच्या॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । अ॒ग्निम् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.१॥

ऋषिः - शुक्रः

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - शत्रुनाशन सूक्त

स्वर सहित मन्त्र

ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥

स्वर सहित पद पाठ

ये । पु॒रस्ता॑त् । जुह्व॑ति । जात॒ऽवे॒द॒: । प्राच्या॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । अ॒ग्निम् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.१॥


स्वर रहित मन्त्र

ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान्। अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥


स्वर रहित पद पाठ

ये । पुरस्तात् । जुह्वति । जातऽवेद: । प्राच्या: । दिश: । अभिऽदासन्ति । अस्मान् । अग्निम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.१॥