atharvaveda/4/39/2
ऋषिः - अङ्गिराः
देवता - पृथिवी
छन्दः - त्रिपदा महाबृहती
स्वरः - सन्नति सूक्त
पृ॒थि॒वी । धे॒नु: । तस्या॑: । अ॒ग्नि: । व॒त्स: । सा । मे॒ । अ॒ग्निना॑ । व॒त्सेन॑ । इष॑म् । ऊर्ज॑म् । काम॑म् । दु॒हा॒म् । आयु॑: । प्र॒थ॒मम् । प्र॒ऽजाम् । पोष॑म् । र॒यिम् । स्वाहा॑ ॥३९.२॥
पृथिवी । धेनु: । तस्या: । अग्नि: । वत्स: । सा । मे । अग्निना । वत्सेन । इषम् । ऊर्जम् । कामम् । दुहाम् । आयु: । प्रथमम् । प्रऽजाम् । पोषम् । रयिम् । स्वाहा ॥३९.२॥