ऋषिः - अङ्गिराः

देवता - जातवेदाः

छन्दः - त्रिष्टुप्

स्वरः - सन्नति सूक्त

PreviousNext
स्वर सहित मन्त्र

हृ॒दा पू॒तं मन॑सा जातवेदो॒ विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। स॒प्तास्या॑नि॒ तव॑ जातवेद॒स्तेभ्यो॑ जुहोमि॒ स जु॑षस्व ह॒व्यम् ॥

स्वर सहित पद पाठ

हृ॒दा । पू॒तम् । मन॑सा । जा॒त॒ऽवे॒द॒ः । विश्वा॑नि । दे॒व॒ । व॒युना॑नि । वि॒द्वान् । स॒प्त । आ॒स्या᳡नि । तव॑ । जा॒त॒ऽवे॒द॒ः । तेभ्य॑ः । जु॒हो॒मि॒ । सः । जु॒ष॒स्व॒ । ह॒व्यम् ॥३९.१०॥


स्वर रहित मन्त्र

हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान्। सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥


स्वर रहित पद पाठ

हृदा । पूतम् । मनसा । जातऽवेदः । विश्वानि । देव । वयुनानि । विद्वान् । सप्त । आस्या᳡नि । तव । जातऽवेदः । तेभ्यः । जुहोमि । सः । जुषस्व । हव्यम् ॥३९.१०॥