atharvaveda/4/38/5

सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति। यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वा॑न्लो॒कान्प॒र्येति॒ रक्ष॑न्। स न॒ ऐतु॒ होम॑मि॒मं जु॑षाणो॑३ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान् ॥

सूर्य॑स्य । र॒श्मीन् । अनु॑ । या: । स॒म्ऽचर॑न्ति । मरी॑ची: । वा॒ । या: । अ॒नु॒ऽसं॒चर॑न्ति । यासा॑म् । ऋ॒ष॒भ: । दू॒र॒त: । वा॒जिनी॑ऽवान् । स॒द्य: । सर्वा॑न् । लो॒कान् । प॒रि॒ऽएति॑ । रक्ष॑न् । स: । न॒: । आ । ए॒तु॒ । होम॑म् । इ॒मम् । जु॒षा॒ण: । अ॒न्तरि॑क्षेण । स॒ह । वा॒जिनी॑ऽवान् ॥३८.५॥

ऋषिः - बादरायणिः

देवता - वाजिनीवान् ऋषभः

छन्दः - भुरिगत्यष्टिः

स्वरः - वाजिनीवान् ऋषभ सूक्त

स्वर सहित मन्त्र

सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति। यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वा॑न्लो॒कान्प॒र्येति॒ रक्ष॑न्। स न॒ ऐतु॒ होम॑मि॒मं जु॑षाणो॑३ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान् ॥

स्वर सहित पद पाठ

सूर्य॑स्य । र॒श्मीन् । अनु॑ । या: । स॒म्ऽचर॑न्ति । मरी॑ची: । वा॒ । या: । अ॒नु॒ऽसं॒चर॑न्ति । यासा॑म् । ऋ॒ष॒भ: । दू॒र॒त: । वा॒जिनी॑ऽवान् । स॒द्य: । सर्वा॑न् । लो॒कान् । प॒रि॒ऽएति॑ । रक्ष॑न् । स: । न॒: । आ । ए॒तु॒ । होम॑म् । इ॒मम् । जु॒षा॒ण: । अ॒न्तरि॑क्षेण । स॒ह । वा॒जिनी॑ऽवान् ॥३८.५॥


स्वर रहित मन्त्र

सूर्यस्य रश्मीननु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति। यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान्लोकान्पर्येति रक्षन्। स न ऐतु होममिमं जुषाणो३ऽन्तरिक्षेण सह वाजिनीवान् ॥


स्वर रहित पद पाठ

सूर्यस्य । रश्मीन् । अनु । या: । सम्ऽचरन्ति । मरीची: । वा । या: । अनुऽसंचरन्ति । यासाम् । ऋषभ: । दूरत: । वाजिनीऽवान् । सद्य: । सर्वान् । लोकान् । परिऽएति । रक्षन् । स: । न: । आ । एतु । होमम् । इमम् । जुषाण: । अन्तरिक्षेण । सह । वाजिनीऽवान् ॥३८.५॥