ऋषिः - बादरायणिः

देवता - अप्सराः

छन्दः - त्र्यवसाना षट्पदा जगती

स्वरः - वाजिनीवान् ऋषभ सूक्त

PreviousNext
स्वर सहित मन्त्र

यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्। सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑। सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म् ॥

स्वर सहित पद पाठ

या । अयै॑ः । प॒रि॒ऽनृत्य॑ति । आ॒ऽददा॑ना । कृ॒तम् । ग्लहा॑त् । सा । न॒ः । कृ॒तानि॑ । सी॒ष॒ती । प्र॒ऽहाम् । आ॒प्नो॒तु॒ । मा॒यया॑ । सा । न॒ः । पय॑स्वती । आ । ए॒तु॒ । मा । न॒ः । जै॒षु॒ । इ॒दम् । धन॑म् ॥३८.३॥


स्वर रहित मन्त्र

यायैः परिनृत्यत्याददाना कृतं ग्लहात्। सा नः कृतानि सीषती प्रहामाप्नोतु मायया। सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥


स्वर रहित पद पाठ

या । अयैः । परिऽनृत्यति । आऽददाना । कृतम् । ग्लहात् । सा । नः । कृतानि । सीषती । प्रऽहाम् । आप्नोतु । मायया । सा । नः । पयस्वती । आ । एतु । मा । नः । जैषु । इदम् । धनम् ॥३८.३॥