ऋषिः - बादरायणिः

देवता - अजशृङ्ग्योषधिः

छन्दः - षट्पदा जगती

स्वरः - कृमिनाशक सूक्त

PreviousNext
स्वर सहित मन्त्र

श्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः। प्रि॒यो दृ॒श इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स्तमि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्या॑वता ॥

स्वर सहित पद पाठ

श्वाऽइ॑व । एक॑ः । क॒पिःऽइ॑व । एक॑ः । कु॒मा॒रः । स॒र्व॒ऽके॒श॒कः । प्रि॒यः । दृ॒शेऽइ॑व । भू॒त्वा ।ग॒न्ध॒र्वः । स॒च॒ते॒ । स्त्रिय॑ः । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ । ब्रह्म॑णा । वी॒र्य᳡वता ॥३७.११॥


स्वर रहित मन्त्र

श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः। प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्तमितो नाशयामसि ब्रह्मणा वीर्यावता ॥


स्वर रहित पद पाठ

श्वाऽइव । एकः । कपिःऽइव । एकः । कुमारः । सर्वऽकेशकः । प्रियः । दृशेऽइव । भूत्वा ।गन्धर्वः । सचते । स्त्रियः । तम् । इतः । नाशयामसि । ब्रह्मणा । वीर्य᳡वता ॥३७.११॥