atharvaveda/4/37/10
ऋषिः - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - अनुष्टुप्
स्वरः - कृमिनाशक सूक्त
अ॒व॒का॒ऽअ॒दान् । अ॒भि॒ऽशो॒चान् । अ॒प्ऽसु । ज्यो॒त॒य॒ । मा॒म॒कान् । पि॒शा॒चान् । सर्वा॑न् । ओ॒ष॒धे॒ । प्र । मृ॒णी॒हि॒ । सह॑स्व । च॒ ॥३७.१०॥
अवकाऽअदान् । अभिऽशोचान् । अप्ऽसु । ज्योतय । मामकान् । पिशाचान् । सर्वान् । ओषधे । प्र । मृणीहि । सहस्व । च ॥३७.१०॥