ऋषिः - चातनः

देवता - सत्यौजा अग्निः

छन्दः - अनुष्टुप्

स्वरः - सत्यौजा अग्नि सूक्त

PreviousNext
स्वर सहित मन्त्र

न पि॑शा॒चैः सं श॑क्नोमि॒ न स्ते॒नैर्न व॑न॒र्गुभिः॑। पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ यम॒हं ग्राम॑मावि॒शे ॥

स्वर सहित पद पाठ

न । पि॒शा॒चैः । सम् । श॒क्नो॒मि॒ । न । स्ते॒नैः । न । व॒न॒र्गुऽभि॑ः ।पि॒शा॒चाः । तस्मा॑त् । न॒श्य॒न्ति॒ । यम् । अ॒हम् । ग्राम॑म् । आ॒ऽवि॒शे ॥३६.७॥


स्वर रहित मन्त्र

न पिशाचैः सं शक्नोमि न स्तेनैर्न वनर्गुभिः। पिशाचास्तस्मान्नश्यन्ति यमहं ग्राममाविशे ॥


स्वर रहित पद पाठ

न । पिशाचैः । सम् । शक्नोमि । न । स्तेनैः । न । वनर्गुऽभिः ।पिशाचाः । तस्मात् । नश्यन्ति । यम् । अहम् । ग्रामम् । आऽविशे ॥३६.७॥