ऋषिः - चातनः
देवता - सत्यौजा अग्निः
छन्दः - अनुष्टुप्
स्वरः - सत्यौजा अग्नि सूक्त
अ॒भि । तम् । निःऽऋ॑तिः । ध॒त्ता॒म् । अश्व॑म्ऽइव । अ॒श्व॒ऽअ॒भि॒धान्या॑ । म॒ल्वः । यः । मह्य॑म् । क्रुध्य॑ति । सः । ऊं॒ इति॑ । पाशा॑त् । न । मु॒च्य॒ते॒ ॥३६.१०॥
अभि । तम् । निःऽऋतिः । धत्ताम् । अश्वम्ऽइव । अश्वऽअभिधान्या । मल्वः । यः । मह्यम् । क्रुध्यति । सः । ऊं इति । पाशात् । न । मुच्यते ॥३६.१०॥