ऋषिः - प्रजापतिः
देवता - अतिमृत्युः
छन्दः - त्रिष्टुप्
स्वरः - मृत्युसंतरण सूक्त
यस्मा॑त् । प॒क्वात् । अ॒मृत॑म् । स॒म्ऽब॒भूव॑ । यः । गा॒य॒त्र्याः । अधि॑ऽपतिः । ब॒भूव॑ । यस्मि॑न् । वेदा॑ः । निऽहि॑ताः । वि॒श्वऽरू॑पाः । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.६॥
यस्मात् । पक्वात् । अमृतम् । सम्ऽबभूव । यः । गायत्र्याः । अधिऽपतिः । बभूव । यस्मिन् । वेदाः । निऽहिताः । विश्वऽरूपाः । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३५.६॥