ऋषिः - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - पञ्चपदातिशक्वरी
स्वरः - ब्रह्मौदन सूक्त
घृ॒तऽहृ॑दाः । मधु॑ऽकूलाः । सुरा॑ऽउदकाः । क्षी॒रेण॑ । पू॒र्णाः । उ॒द॒केन॑ । द॒ध्ना । ए॒ताः ।त्वा॒ । धारा॑ः । उप॑ । य॒न्तु॒ । सर्वा॑ः । स्व॒ःऽगे । लो॒के । मधु॑ऽमत् । पिन्व॑मानाः । उप॑ । त्वा॒ । ति॒ष्ठ॒न्तु॒ । पु॒ष्क॒रिणी॑ः । सम्ऽअ॑न्ताः ॥३४.६॥
घृतऽहृदाः । मधुऽकूलाः । सुराऽउदकाः । क्षीरेण । पूर्णाः । उदकेन । दध्ना । एताः ।त्वा । धाराः । उप । यन्तु । सर्वाः । स्वःऽगे । लोके । मधुऽमत् । पिन्वमानाः । उप । त्वा । तिष्ठन्तु । पुष्करिणीः । सम्ऽअन्ताः ॥३४.६॥