ऋषिः - अथर्वा

देवता - ब्रह्मौदनम्

छन्दः - त्र्यवसाना सप्तदाकृतिः

स्वरः - ब्रह्मौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

ए॒ष य॒ज्ञानां॒ वित॑तो॒ वहि॑ष्ठो विष्टा॒रिणं॑ प॒क्त्वा दिव॒मा वि॑वेश। आ॒ण्डीकं॒ कुमु॑दं॒ सं त॑नोति॒ बिसं॑ शा॒लूकं॒ शफ॑को मुला॒ली। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥

स्वर सहित पद पाठ

ए॒षः । य॒ज्ञाना॑म् । विऽत॑तः । वहि॑ष्ठः । वि॒ष्टा॒रिण॑म् । प॒क्त्वा । दिव॑म् । आ । वि॒वे॒श॒ । आ॒ण्डी॑कम् । कुमु॑दम् । सम् । त॒नो॒ति॒ । बिस॑म् । शा॒लूक॑म् । शफ॑कः । मु॒ला॒ली । ए॒ताः ।त्वा॒ । धारा॑ः । उप॑ । य॒न्तु॒ । सर्वा॑ः । स्व॒ःऽगे । लो॒के । मधु॑ऽमत् । पिन्व॑मानाः । उप॑ । त्वा॒ । ति॒ष्ठ॒न्तु॒ । पु॒ष्क॒रिणी॑ः । सम्ऽअ॑न्ताः ॥३४.५॥


स्वर रहित मन्त्र

एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश। आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली। एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥


स्वर रहित पद पाठ

एषः । यज्ञानाम् । विऽततः । वहिष्ठः । विष्टारिणम् । पक्त्वा । दिवम् । आ । विवेश । आण्डीकम् । कुमुदम् । सम् । तनोति । बिसम् । शालूकम् । शफकः । मुलाली । एताः ।त्वा । धाराः । उप । यन्तु । सर्वाः । स्वःऽगे । लोके । मधुऽमत् । पिन्वमानाः । उप । त्वा । तिष्ठन्तु । पुष्करिणीः । सम्ऽअन्ताः ॥३४.५॥