atharvaveda/4/34/5
ऋषिः - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - त्र्यवसाना सप्तदाकृतिः
स्वरः - ब्रह्मौदन सूक्त
ए॒ष: । य॒ज्ञाना॑म् । विऽत॑त: । वहि॑ष्ठ: । वि॒ष्टा॒रिण॑म् । प॒क्त्वा । दिव॑म् । आ । वि॒वे॒श॒ । आ॒ण्डी॑कम् । कुमु॑दम् । सम् । त॒नो॒ति॒ । बिस॑म् । शा॒लूक॑म् । शफ॑क: । मु॒ला॒ली । ए॒ता: ।त्वा॒ । धारा॑: । उप॑ । य॒न्तु॒ । सर्वा॑: । स्व॒:ऽगे । लो॒के । मधु॑ऽमत् । पिन्व॑माना: । उप॑ । त्वा॒ । ति॒ष्ठ॒न्तु॒ । पु॒ष्क॒रिणी॑: । सम्ऽअ॑न्ता: ॥३४.५॥
एष: । यज्ञानाम् । विऽतत: । वहिष्ठ: । विष्टारिणम् । पक्त्वा । दिवम् । आ । विवेश । आण्डीकम् । कुमुदम् । सम् । तनोति । बिसम् । शालूकम् । शफक: । मुलाली । एता: ।त्वा । धारा: । उप । यन्तु । सर्वा: । स्व:ऽगे । लोके । मधुऽमत् । पिन्वमाना: । उप । त्वा । तिष्ठन्तु । पुष्करिणी: । सम्ऽअन्ता: ॥३४.५॥