ऋषिः - अथर्वा

देवता - ब्रह्मौदनम्

छन्दः - त्रिष्टुप्

स्वरः - ब्रह्मौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑न॒स्थाः पू॒ताः पव॑नेन शु॒द्धाः शुच॑यः॒ शुचि॒मपि॑ यन्ति लो॒कम्। नैषां॑ शि॒श्नं प्र द॑हति जा॒तवे॑दाः स्व॒र्गे लो॒के ब॒हु स्त्रैण॑मेषाम् ॥

स्वर सहित पद पाठ

अ॒न॒स्थाः । पू॒ताः । पव॑नेन । शु॒ध्दाः । शुच॑यः । शुचि॑म् । अपि॑ । य॒न्ति॒ । लो॒कम् । न । ए॒षा॒म् । शि॒श्नम् । प्र । द॒ह॒ति॒ । जा॒तऽवे॑दाः । स्व॒ःऽगे । लो॒के । ब॒हु । स्त्रैण॑म् । ए॒षा॒म् ३४.२॥


स्वर रहित मन्त्र

अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम्। नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥


स्वर रहित पद पाठ

अनस्थाः । पूताः । पवनेन । शुध्दाः । शुचयः । शुचिम् । अपि । यन्ति । लोकम् । न । एषाम् । शिश्नम् । प्र । दहति । जातऽवेदाः । स्वःऽगे । लोके । बहु । स्त्रैणम् । एषाम् ३४.२॥