atharvaveda/4/31/3

सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मै रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न्। उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयासा एकज॒ त्वम् ॥

सह॑स्व । म॒न्यो॒ इति॑ । अ॒भिऽमा॑तिम् अ॒स्मै । रु॒जन् । मृ॒णन् । प्र॒ऽमृ॒णन् । प्र । इ॒हि॒ । शत्रू॑न् । उ॒ग्रम् । ते॒ । पाज॑: । न॒नु । आ । रु॒रु॒ध्रे॒ । व॒शी । वश॑म् । न॒या॒सै॒ । ए॒क॒ऽज॒ । त्वम् ॥३१.३॥

ऋषिः - ब्रह्मास्कन्दः

देवता - मन्युः

छन्दः - त्रिष्टुप्

स्वरः - सेनानिरीक्षण सूक्त

स्वर सहित मन्त्र

सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मै रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न्। उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयासा एकज॒ त्वम् ॥

स्वर सहित पद पाठ

सह॑स्व । म॒न्यो॒ इति॑ । अ॒भिऽमा॑तिम् अ॒स्मै । रु॒जन् । मृ॒णन् । प्र॒ऽमृ॒णन् । प्र । इ॒हि॒ । शत्रू॑न् । उ॒ग्रम् । ते॒ । पाज॑: । न॒नु । आ । रु॒रु॒ध्रे॒ । व॒शी । वश॑म् । न॒या॒सै॒ । ए॒क॒ऽज॒ । त्वम् ॥३१.३॥


स्वर रहित मन्त्र

सहस्व मन्यो अभिमातिमस्मै रुजन्मृणन्प्रमृणन्प्रेहि शत्रून्। उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयासा एकज त्वम् ॥


स्वर रहित पद पाठ

सहस्व । मन्यो इति । अभिऽमातिम् अस्मै । रुजन् । मृणन् । प्रऽमृणन् । प्र । इहि । शत्रून् । उग्रम् । ते । पाज: । ननु । आ । रुरुध्रे । वशी । वशम् । नयासै । एकऽज । त्वम् ॥३१.३॥