ऋषिः - ब्रह्मास्कन्दः

देवता - मन्युः

छन्दः - त्रिष्टुप्

स्वरः - सेनानिरीक्षण सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि। ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥

स्वर सहित पद पाठ

अ॒ग्निःऽइ॑व । म॒न्यो॒ इति॑ । त्वि॒षि॒तः । स॒ह॒स्व॒ । से॒ना॒ऽनीः । न॒ः । स॒हु॒रे॒ । हू॒तः । ए॒धि॒ । ह॒त्वाय॑ । शत्रू॑न् । वि । भ॒ज॒स्व॒ । वेद॑ः । ओेज॑ः । मिमा॑नः । वि । मृध॑ः । नु॒द॒स्व॒ ॥३१.२॥


स्वर रहित मन्त्र

अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि। हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥


स्वर रहित पद पाठ

अग्निःऽइव । मन्यो इति । त्विषितः । सहस्व । सेनाऽनीः । नः । सहुरे । हूतः । एधि । हत्वाय । शत्रून् । वि । भजस्व । वेदः । ओेजः । मिमानः । वि । मृधः । नुदस्व ॥३१.२॥