ऋषिः - ब्रह्मास्कन्दः

देवता - मन्युः

छन्दः - त्रिष्टुप्

स्वरः - सेनानिरीक्षण सूक्त

PreviousNext
स्वर सहित मन्त्र

त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणा हृषि॒तासो॑ मरुत्वन्। ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना॒ उप॒ प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥

स्वर सहित पद पाठ

त्वया॑ । म॒न्यो॒ इति॑ । स॒ऽरथ॑म् । आ॒ऽरु॒जन्त॑ः । हर्ष॑माणाः । हृ॒षि॒तास॑ः । म॒रु॒त्व॒न् । ति॒ग्मऽइ॑षवः । आयु॑धा । स॒म्ऽशिशा॑नाः । उप॑ । प्र । य॒न्तु॒ । नर॑ः । अ॒ग्निऽरू॑पाः ॥३१.१॥


स्वर रहित मन्त्र

त्वया मन्यो सरथमारुजन्तो हर्षमाणा हृषितासो मरुत्वन्। तिग्मेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ॥


स्वर रहित पद पाठ

त्वया । मन्यो इति । सऽरथम् । आऽरुजन्तः । हर्षमाणाः । हृषितासः । मरुत्वन् । तिग्मऽइषवः । आयुधा । सम्ऽशिशानाः । उप । प्र । यन्तु । नरः । अग्निऽरूपाः ॥३१.१॥