ऋषिः - अथर्वा

देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्

छन्दः - त्रिष्टुप्

स्वरः - राष्ट्रदेवी सुक्त

PreviousNext
स्वर सहित मन्त्र

अ॒हमे॒व वात॑इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑। प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒म्ना सं ब॑भूव ॥

स्वर सहित पद पाठ

अ॒हम् । ए॒व । वात॑ःऽइव । प्र । वा॒मि॒ । आ॒ऽरभ॑माणा । भुव॑नानि । विश्वा॑ । प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । ए॒ताव॑ती । म॒हि॒म्ना । सम् । ब॒भू॒व॒ ॥३०.८॥


स्वर रहित मन्त्र

अहमेव वातइव प्र वाम्यारभमाणा भुवनानि विश्वा। परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥


स्वर रहित पद पाठ

अहम् । एव । वातःऽइव । प्र । वामि । आऽरभमाणा । भुवनानि । विश्वा । परः । दिवा । परः । एना । पृथिव्या । एतावती । महिम्ना । सम् । बभूव ॥३०.८॥