atharvaveda/4/30/3
ऋषिः - अथर्वा
देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
छन्दः - त्रिष्टुप्
स्वरः - राष्ट्रदेवी सुक्त
अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वाना॑म् । उ॒त । मानु॑षाणाम् । यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥३०.३॥
अहम् । एव । स्वयम् । इदम् । वदामि । जुष्टम् । देवानाम् । उत । मानुषाणाम् । यम् । कामये । तम्ऽतम् । उग्रम् । कृणोमि । तम् । ब्रह्माणम् । तम् । ऋषिम् । तम् । सुऽमेधाम् ॥३०.३॥