ऋषिः - अथर्वा

देवता - रुद्रः, व्याघ्रः

छन्दः - अनुष्टुप्

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

यो अ॒द्य स्ते॒न आय॑ति॒ स संपि॑ष्टो॒ अपा॑यति। प॒थाम॑पध्वं॒सेनै॒त्विन्द्रो॒ वज्रे॑ण हन्तु॒ तम् ॥

स्वर सहित पद पाठ

यः । अ॒द्य । स्ते॒नः । आ॒ऽअय॑ति । सः । सम्ऽपि॑ष्टः । अप॑ । अ॒य॒ति॒ । प॒थाम् । अ॒प॒ऽध्वं॒सेन॑ । ए॒तु॒ । इन्द्र॑ः । वज्रे॑ण । ह॒न्तु॒ । तम् ॥३.५॥


स्वर रहित मन्त्र

यो अद्य स्तेन आयति स संपिष्टो अपायति। पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥


स्वर रहित पद पाठ

यः । अद्य । स्तेनः । आऽअयति । सः । सम्ऽपिष्टः । अप । अयति । पथाम् । अपऽध्वंसेन । एतु । इन्द्रः । वज्रेण । हन्तु । तम् ॥३.५॥