ऋषिः - अथर्वा

देवता - रुद्रः, व्याघ्रः

छन्दः - पथ्यापङ्क्तिः

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

उदि॒तस्त्रयो॑ अक्रमन्व्या॒घ्रः पुरु॑षो॒ वृकः॑। हिरु॒ग्घि यन्ति॒ सिन्ध॑वो॒ हिरु॑ग्दे॒वो वन॒स्पति॒र्हिरु॑ङ्नमन्तु॒ शत्र॑वः ॥

स्वर सहित पद पाठ

उत् । इ॒तः । त्रय॑ः । अ॒क्र॒म॒न् । व्या॒घ्रः । पुरु॑षः । वृक॑ः । हिरु॑क् । हि । यन्ति॑ । सिन्ध॑वः । हिरु॑क् । दे॒वः । वन॒स्पति॑ः । हिरु॑क् । न॒म॒न्तु॒ । शत्र॑वः ॥३.१॥


स्वर रहित मन्त्र

उदितस्त्रयो अक्रमन्व्याघ्रः पुरुषो वृकः। हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः ॥


स्वर रहित पद पाठ

उत् । इतः । त्रयः । अक्रमन् । व्याघ्रः । पुरुषः । वृकः । हिरुक् । हि । यन्ति । सिन्धवः । हिरुक् । देवः । वनस्पतिः । हिरुक् । नमन्तु । शत्रवः ॥३.१॥