ऋषिः - मृगारः

देवता - मित्रावरुणौ

छन्दः - शक्वरीगर्भा जगती

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

ययो॒ रथः॑ स॒त्यव॑र्त्म॒र्जुर॑श्मिर्मिथु॒या चर॑न्तमभि॒याति॑ दू॒षय॑न्। स्तौमि॑ मि॒त्रावरु॑णौ नाथि॒तो जो॑हवीमि तौ नो मुञ्चत॒मंह॑सः ॥

स्वर सहित पद पाठ

ययो॑ः । रथ॑ः । स॒त्यऽव॑र्त्मा । ऋ॒जुऽर॑श्मिः । मि॒थु॒या । चर॑न्तम् । अ॒भि॒ऽयाति॑ । दू॒षय॑न् । स्तौमि॑ । मि॒त्रावरु॑णौ । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । तौ । न॒ः । मु॒ञ्च॒त॒म् । अंह॑सः ॥२९.७॥


स्वर रहित मन्त्र

ययो रथः सत्यवर्त्मर्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन्। स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥


स्वर रहित पद पाठ

ययोः । रथः । सत्यऽवर्त्मा । ऋजुऽरश्मिः । मिथुया । चरन्तम् । अभिऽयाति । दूषयन् । स्तौमि । मित्रावरुणौ । नाथितः । जोहवीमि । तौ । नः । मुञ्चतम् । अंहसः ॥२९.७॥