ऋषिः - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
स्वरः - पापमोचन सूक्त
म॒न्वे । वा॒म् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽवृ॒धौ॒ । सऽचे॑तसौ । द्रुह्व॑णः । यौ । नु॒देथे॒ इति॑ । प्र । स॒त्यऽवा॑नम् । अव॑थः । भरे॑षु । तौ । न॒ः । मु॒ञ्च॒त॒म् । अंह॑सः ॥२९.१॥
मन्वे । वाम् । मित्रावरुणौ । ऋतऽवृधौ । सऽचेतसौ । द्रुह्वणः । यौ । नुदेथे इति । प्र । सत्यऽवानम् । अवथः । भरेषु । तौ । नः । मुञ्चतम् । अंहसः ॥२९.१॥