ऋषिः - मृगारोऽअथर्वा वा

देवता - भवाशर्वौ रुद्रो वा

छन्दः - त्रिष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

यः कृ॑त्या॒कृन्मू॑ल॒कृद्या॑तु॒धानो॒ नि तस्मि॑न्धत्तं॒ वज्र॑मु॒ग्रौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

स्वर सहित पद पाठ

यः । कृ॒त्या॒ऽकृत् । मू॒ल॒ऽकृत् । या॒तु॒ऽधान॑ः । नि । तस्मि॑न् । ध॒त्त॒म् । वज्र॑म् । उ॒ग्रौ॒ । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑ः । यौ । चतु॑ःऽपदः । तौ । न॒ः । मु॒ञ्च॒त॒म् । अंह॑सः ॥२८.६॥


स्वर रहित मन्त्र

यः कृत्याकृन्मूलकृद्यातुधानो नि तस्मिन्धत्तं वज्रमुग्रौ। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥


स्वर रहित पद पाठ

यः । कृत्याऽकृत् । मूलऽकृत् । यातुऽधानः । नि । तस्मिन् । धत्तम् । वज्रम् । उग्रौ । यौ । अस्य । ईशाथे इति । द्विऽपदः । यौ । चतुःऽपदः । तौ । नः । मुञ्चतम् । अंहसः ॥२८.६॥