ऋषिः - मृगारोऽअथर्वा वा

देवता - भवाशर्वौ रुद्रो वा

छन्दः - त्रिष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

ययो॑रभ्य॒ध्व उ॒त यद्दू॒रे चि॒द्यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

स्वर सहित पद पाठ

ययो॑ः । अ॒भि॒ऽअ॒ध्वे । उ॒त । यत् । दू॒रे । चि॒त् । यौ । वि॒दि॒तौ । इ॒षु॒ऽभृता॑म् । असि॑ष्ठौ । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑ः । यौ । चतु॑ःऽपदः । तौ । न॒ः । मु॒ञ्च॒त॒म् । अंह॑सः॥२८.२॥


स्वर रहित मन्त्र

ययोरभ्यध्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥


स्वर रहित पद पाठ

ययोः । अभिऽअध्वे । उत । यत् । दूरे । चित् । यौ । विदितौ । इषुऽभृताम् । असिष्ठौ । यौ । अस्य । ईशाथे इति । द्विऽपदः । यौ । चतुःऽपदः । तौ । नः । मुञ्चतम् । अंहसः॥२८.२॥