ऋषिः - मृगारः

देवता - मरुद्गणः

छन्दः - त्रिष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ। श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

स्वर सहित पद पाठ

पय॑ः । धे॒नू॒नाम् । रस॑म् । ओष॑धीनाम् । ज॒वम् । अर्व॑ताम् । क॒व॒य॒ः । ये । इन्व॑थ । श॒ग्मा । भ॒व॒न्तु॒ । म॒रुत॑ः । न॒ः । स्यो॒नाः । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥२७.३॥


स्वर रहित मन्त्र

पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ। शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥


स्वर रहित पद पाठ

पयः । धेनूनाम् । रसम् । ओषधीनाम् । जवम् । अर्वताम् । कवयः । ये । इन्वथ । शग्मा । भवन्तु । मरुतः । नः । स्योनाः । ते । नः । मुञ्चन्तु । अंहसः ॥२७.३॥