ऋषिः - मृगारः

देवता - मरुद्गणः

छन्दः - त्रिष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

उत्स॒मक्षि॑तं॒ व्यच॑न्ति॒ ये सदा॒ य आ॑सि॒ञ्चन्ति॒ रस॒मोष॑धीषु। पु॒रो द॑धे म॒रुतः॒ पृश्नि॑मातॄं॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

स्वर सहित पद पाठ

उत्स॑म् । अक्षि॑तम् । वि॒ऽअच॑न्ति । ये । सदा॑ । ये । आ॒ऽसि॒ञ्चन्ति॑ । रस॑म् । ओष॑धीषु । पु॒रः । द॒धे॒ । म॒रुत॑ः । पृश्नि॑ऽमातृन् । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥२७.२॥


स्वर रहित मन्त्र

उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु। पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥


स्वर रहित पद पाठ

उत्सम् । अक्षितम् । विऽअचन्ति । ये । सदा । ये । आऽसिञ्चन्ति । रसम् । ओषधीषु । पुरः । दधे । मरुतः । पृश्निऽमातृन् । ते । नः । मुञ्चन्तु । अंहसः ॥२७.२॥