ऋषिः - मृगारः
देवता - द्यावापृथिवी
छन्दः - शाक्वरगर्भातिमध्येज्योतिस्त्रिष्टुप्
स्वरः - पापमोचन सूक्त
यत् । मा । इ॒दम् । अ॒भि॒ऽशोच॑ति । येन॑ऽयेन । वा॒ । कृ॒तम् । पौरु॑षेयात् । न । दैवा॑त् । स्तौमि॑ । द्यावा॑पृथि॒वी इति॑ । ना॒थि॒तः । जो॒ह॒वी॒मि॒ । ते इति॑ । न॒ः । मु॒ञ्च॒त॒म् । अंह॑सः ॥२६.७॥
यत् । मा । इदम् । अभिऽशोचति । येनऽयेन । वा । कृतम् । पौरुषेयात् । न । दैवात् । स्तौमि । द्यावापृथिवी इति । नाथितः । जोहवीमि । ते इति । नः । मुञ्चतम् । अंहसः ॥२६.७॥