atharvaveda/4/26/6

ये की॒लाले॑न त॒र्पय॑थो॒ ये घृ॒तेन॒ याभ्या॑मृ॒ते न किं च॒न श॑क्नु॒वन्ति॑। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥

ये इति॑ । की॒लाले॑न । त॒र्पय॑थ: । ये इति॑ । घृ॒तेन॑ । याभ्या॑म्‌ । ऋ॒ते । न । किम् । च॒न । श॒क्नुवन्ति॑ । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.६॥

ऋषिः - मृगारः

देवता - द्यावापृथिवी

छन्दः - त्रिष्टुप्

स्वरः - पापमोचन सूक्त

स्वर सहित मन्त्र

ये की॒लाले॑न त॒र्पय॑थो॒ ये घृ॒तेन॒ याभ्या॑मृ॒ते न किं च॒न श॑क्नु॒वन्ति॑। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥

स्वर सहित पद पाठ

ये इति॑ । की॒लाले॑न । त॒र्पय॑थ: । ये इति॑ । घृ॒तेन॑ । याभ्या॑म्‌ । ऋ॒ते । न । किम् । च॒न । श॒क्नुवन्ति॑ । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.६॥


स्वर रहित मन्त्र

ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥


स्वर रहित पद पाठ

ये इति । कीलालेन । तर्पयथ: । ये इति । घृतेन । याभ्याम्‌ । ऋते । न । किम् । चन । शक्नुवन्ति । द्यावापृथिवी इति । भवतम् । मे । स्योने इति । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.६॥