ऋषिः - मृगारः

देवता - वायुः, सविता

छन्दः - त्रिष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

र॒यिं मे॒ पोषं॑ सवि॒तोत वा॒युस्त॒नू दक्ष॒मा सु॑वतां सु॒शेव॑म्। अ॑य॒क्ष्मता॑तिं॒ मह॑ इ॒ह ध॑त्तं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

स्वर सहित पद पाठ

र॒यिम् । मे॒ । पोष॑म् । स॒वि॒ता । उ॒त । वा॒युः । त॒नू इति॑ । दक्ष॑म् । आ । सु॒व॒ता॒म् । सु॒ऽशेव॑म् । अ॒य॒क्ष्मऽता॑तिम् । मह॑ः । इ॒ह । ध॒त्त॒म् । तौ । न॒ः । मु॒ञ्च॒त॒म् । अंह॑सः ॥२५.५॥


स्वर रहित मन्त्र

रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम्। अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः ॥


स्वर रहित पद पाठ

रयिम् । मे । पोषम् । सविता । उत । वायुः । तनू इति । दक्षम् । आ । सुवताम् । सुऽशेवम् । अयक्ष्मऽतातिम् । महः । इह । धत्तम् । तौ । नः । मुञ्चतम् । अंहसः ॥२५.५॥