ऋषिः - मृगारः

देवता - वायु, सविता

छन्दः - त्रिष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्वद्वि॒शथो॒ यौ च॒ रक्ष॑थः। यौ विश्व॑स्य परि॒भू ब॑भू॒वथु॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

स्वर सहित पद पाठ

वा॒योः । स॒वि॒तुः । वि॒दथा॑नि । म॒न्म॒हे॒ । यौ । आ॒त्म॒न्ऽवत् । वि॒शथ॑ः । यौ । च॒ । रक्ष॑थः । यौ । विश्व॑स्य । प॒रि॒भू इति॑ प॒रि॒ऽभू । ब॒भू॒वथु॑ः । तौ । न॒ः । मु॒ञ्च॒त॒म् । अंह॑सः ॥२५.१॥


स्वर रहित मन्त्र

वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः। यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥


स्वर रहित पद पाठ

वायोः । सवितुः । विदथानि । मन्महे । यौ । आत्मन्ऽवत् । विशथः । यौ । च । रक्षथः । यौ । विश्वस्य । परिभू इति परिऽभू । बभूवथुः । तौ । नः । मुञ्चतम् । अंहसः ॥२५.१॥