ऋषिः - मृगारः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

यस्य॒ जुष्टिं॑ सो॒मिनः॑ का॒मय॑न्ते॒ यं हव॑न्त॒ इषु॑मन्तं॒ गवि॑ष्टौ। यस्मि॑न्न॒र्कः शि॑श्रि॒ये यस्मि॒न्नोजः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

स्वर सहित पद पाठ

यस्य॑ । जुष्टि॑म् । सो॒मिन॑ः । का॒मय॑न्ते । यम् । हव॑न्ते । इषु॑ऽमन्तम् । गोऽइ॑ष्टौ । यस्मि॑न् । अ॒र्कः । शि॒श्रि॒ये । यस्मि॑न् । ओज॑ः । सः । न॒ः । मु॒ञ्च॒तु॒ । अंह॑सः ॥२४.५॥


स्वर रहित मन्त्र

यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ। यस्मिन्नर्कः शिश्रिये यस्मिन्नोजः स नो मुञ्चत्वंहसः ॥


स्वर रहित पद पाठ

यस्य । जुष्टिम् । सोमिनः । कामयन्ते । यम् । हवन्ते । इषुऽमन्तम् । गोऽइष्टौ । यस्मिन् । अर्कः । शिश्रिये । यस्मिन् । ओजः । सः । नः । मुञ्चतु । अंहसः ॥२४.५॥