ऋषिः - मृगारः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

यश्च॑र्षणि॒प्रो वृ॑ष॒भः स्व॒र्विद्यस्मै॒ ग्रावा॑णः प्र॒वद॑न्ति नृ॒म्णम्। यस्या॑ध्व॒रः स॒प्तहो॑ता॒ मदि॑ष्ठः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

स्वर सहित पद पाठ

यः । च॒र्ष॒णि॒ऽप्रः । वृ॒ष॒भः । स्व॒ःऽवित् । यस्मै॑ । ग्रावा॑णः । प्र॒ऽवद॑न्ति । नृ॒म्णम् । यस्य॑ । अ॒ध्व॒रः । स॒प्तऽहो॑ता । मदि॑ष्ठः । सः । न॒ः । मु॒ञ्च॒तु॒ । अंह॑सः ॥२४.३॥


स्वर रहित मन्त्र

यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम्। यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥


स्वर रहित पद पाठ

यः । चर्षणिऽप्रः । वृषभः । स्वःऽवित् । यस्मै । ग्रावाणः । प्रऽवदन्ति । नृम्णम् । यस्य । अध्वरः । सप्तऽहोता । मदिष्ठः । सः । नः । मुञ्चतु । अंहसः ॥२४.३॥