atharvaveda/4/24/1

इन्द्र॑स्य मन्महे॒ शश्व॒दिद॑स्य मन्महे वृत्र॒घ्न स्तोमा॒ उप॑ मे॒म आगुः॑। यो दा॒शुषः॑ सु॒कृतो॒ हव॒मेति॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

इन्द्र॑स्य । म॒न्म॒हे॒ । शश्व॑त् । इत् । अ॒स्य॒ । म॒न्म॒हे॒ । वृ॒त्र॒ऽघ्न: । स्तोमा॑: । उप॑ । मा॒ । इ॒मे । आ । अ॒गु॒: । य: । दा॒शुष॑: । सु॒ऽकृत॑: । हव॑म् । एति॑ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.१॥

ऋषिः - मृगारः

देवता - इन्द्रः

छन्दः - शक्वरीगर्भा पुरःशक्वरी त्रिष्टुप्

स्वरः - पापमोचन सूक्त

स्वर सहित मन्त्र

इन्द्र॑स्य मन्महे॒ शश्व॒दिद॑स्य मन्महे वृत्र॒घ्न स्तोमा॒ उप॑ मे॒म आगुः॑। यो दा॒शुषः॑ सु॒कृतो॒ हव॒मेति॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

स्वर सहित पद पाठ

इन्द्र॑स्य । म॒न्म॒हे॒ । शश्व॑त् । इत् । अ॒स्य॒ । म॒न्म॒हे॒ । वृ॒त्र॒ऽघ्न: । स्तोमा॑: । उप॑ । मा॒ । इ॒मे । आ । अ॒गु॒: । य: । दा॒शुष॑: । सु॒ऽकृत॑: । हव॑म् । एति॑ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.१॥


स्वर रहित मन्त्र

इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः। यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥


स्वर रहित पद पाठ

इन्द्रस्य । मन्महे । शश्वत् । इत् । अस्य । मन्महे । वृत्रऽघ्न: । स्तोमा: । उप । मा । इमे । आ । अगु: । य: । दाशुष: । सुऽकृत: । हवम् । एति । स: । न: । मुञ्चतु । अंहस: ॥२४.१॥