ऋषिः - मृगारः

देवता - प्रचेता अग्निः

छन्दः - प्रस्तारपङ्क्ति

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

येन॑ दे॒वा अ॒मृत॑म॒न्ववि॑न्द॒न्येनौष॑धी॒र्मधु॑मती॒रकृ॑ण्वन्। येन॑ दे॒वाः स्वराभ॑र॒न्त्स नो॑ मुञ्च॒त्वंह॑सः ॥

स्वर सहित पद पाठ

येन॑ । दे॒वाः । अ॒मृत॑म् । अ॒नु॒ऽअवि॑न्दन् । येन॑ । ओष॑धीः । मधु॑ऽमतीः । अकृ॑ण्वन् । येन॑ । दे॒वाः । स्व᳡ः । आ॒ऽअभ॑रन् । सः । न॒ः । मु॒ञ्च॒तु॒ । अंह॑सः ॥२३.६॥


स्वर रहित मन्त्र

येन देवा अमृतमन्वविन्दन्येनौषधीर्मधुमतीरकृण्वन्। येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः ॥


स्वर रहित पद पाठ

येन । देवाः । अमृतम् । अनुऽअविन्दन् । येन । ओषधीः । मधुऽमतीः । अकृण्वन् । येन । देवाः । स्व᳡ः । आऽअभरन् । सः । नः । मुञ्चतु । अंहसः ॥२३.६॥