ऋषिः - मृगारः
देवता - प्रचेता अग्निः
छन्दः - त्रिष्टुप्
स्वरः - पापमोचन सूक्त
येन॑ । ऋष॑यः । ब॒लम् । अद्यो॑तयन् । यु॒जा । येन॑ । असु॑राणाम् । अयु॑वन्त । मा॒याः । येन॑ । अ॒ग्निना॑ । प॒णीन् । इन्द्र॑ः । जि॒गाय॑ । सः । न॒ः । मु॒ञ्च॒तु॒ । अंह॑सः ॥२३.५॥
येन । ऋषयः । बलम् । अद्योतयन् । युजा । येन । असुराणाम् । अयुवन्त । मायाः । येन । अग्निना । पणीन् । इन्द्रः । जिगाय । सः । नः । मुञ्चतु । अंहसः ॥२३.५॥