ऋषिः - मृगारः

देवता - प्रचेता अग्निः

छन्दः - पुरस्ताज्ज्योतिष्मती त्रिष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

याम॑न्याम॒न्नुप॑युक्तं॒ वहि॑ष्ठं॒ कर्म॑ङ्कर्म॒न्नाभ॑गम॒ग्निमी॑डे। र॑क्षो॒हणं॑ यज्ञ॒वृधं॑ घृ॒ताहु॑तं॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

स्वर सहित पद पाठ

याम॑न्ऽयामन् । उप॑ऽयुक्तम् । वहि॑ष्ठम् । कर्म॑न्ऽकर्मन् । आऽभ॑गम् । अ॒ग्निम् । ई॒डे॒ । र॒क्ष॒ःऽहन॑म् । य॒ज्ञ॒ऽवृध॑म् । घृ॒तऽआ॑हुतम् । सः । न॒ः । मु॒ञ्च॒तु॒ । अंह॑सः ॥२३.३॥


स्वर रहित मन्त्र

यामन्यामन्नुपयुक्तं वहिष्ठं कर्मङ्कर्मन्नाभगमग्निमीडे। रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥


स्वर रहित पद पाठ

यामन्ऽयामन् । उपऽयुक्तम् । वहिष्ठम् । कर्मन्ऽकर्मन् । आऽभगम् । अग्निम् । ईडे । रक्षःऽहनम् । यज्ञऽवृधम् । घृतऽआहुतम् । सः । नः । मुञ्चतु । अंहसः ॥२३.३॥