ऋषिः - मृगारः

देवता - प्रचेता अग्निः

छन्दः - त्रिष्टुप्

स्वरः - पापमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसः॒ पाञ्च॑जन्यस्य बहु॒धा यमि॒न्धते॑। विशो॑विशः प्रविशि॒वांस॑मीमहे॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

स्वर सहित पद पाठ

अ॒ग्नेः । म॒न्वे॒ । प्र॒थ॒मस्य॑ । प्रऽचे॑तसः । पाञ्च॑ऽजन्यस्य । ब॒हु॒ऽधा । यम् । इ॒न्धते॑ । विश॑ःऽविशः । प्र॒वि॒शि॒ऽवास॑म् । ई॒म॒हे॒ । सः । न॒ः । मु॒ञ्च॒तु॒ । अंह॑सः ॥२३.१॥


स्वर रहित मन्त्र

अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते। विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥


स्वर रहित पद पाठ

अग्नेः । मन्वे । प्रथमस्य । प्रऽचेतसः । पाञ्चऽजन्यस्य । बहुऽधा । यम् । इन्धते । विशःऽविशः । प्रविशिऽवासम् । ईमहे । सः । नः । मुञ्चतु । अंहसः ॥२३.१॥