ऋषिः - वसिष्ठः, अथर्वा वा

देवता - इन्द्रः, क्षत्रियो राजा

छन्दः - त्रिष्टुप्

स्वरः - अमित्रक्षयण सूक्त

PreviousNext
स्वर सहित मन्त्र

सिं॒हप्र॑तीको॒ विशो॑ अद्धि॒ सर्वा॑ व्या॒घ्रप्र॑ती॒कोऽव॑ बाधस्व॒ शत्रू॑न्। ए॑कवृ॒ष इन्द्र॑सखा जिगी॒वां छ॑त्रूय॒तामा खि॑दा॒ भोज॑नानि ॥

स्वर सहित पद पाठ

सिं॒हऽप्र॑तीकः । विश॑ः । अ॒ध्दि॒ । सर्वा॑ः । व्या॒घ्रऽप्र॑तीकः । अव॑ । बा॒ध॒स्व॒ । शत्रू॑न् । ए॒क॒ऽवृ॒षः । इन्द्र॑ऽसखा । जि॒गी॒वान् । श॒त्रु॒ऽय॒ताम् । आ । खि॒द॒ । भोज॑नानि ॥२२.७॥


स्वर रहित मन्त्र

सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून्। एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि ॥


स्वर रहित पद पाठ

सिंहऽप्रतीकः । विशः । अध्दि । सर्वाः । व्याघ्रऽप्रतीकः । अव । बाधस्व । शत्रून् । एकऽवृषः । इन्द्रऽसखा । जिगीवान् । शत्रुऽयताम् । आ । खिद । भोजनानि ॥२२.७॥