ऋषिः - ब्रह्मा

देवता - गोसमूहः

छन्दः - त्रिष्टुप्

स्वरः - गोसमूह सूक्त

PreviousNext
स्वर सहित मन्त्र

गावो॒ भगो॒ गाव॒ इन्द्रो॑ म इछा॒द्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः। इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामि॑ हृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥

स्वर सहित पद पाठ

गाव॑ः । भग॑ः । गाव॑ः ।‍ इन्द्र॑ः । मे॒ । इ॒च्छा॒त् । गाव॑ः । सोम॑स्य । प्र॒थ॒मस्य॑ । भ॒क्षः । इ॒माः । याः । गाव॑ः । सः । ज॒ना॒स॒ः । इन्द्र॑ः । इ॒च्छामि॑ । हृ॒दा । मन॑सा । चि॒त् । इन्द्र॑म् ॥२१.५॥


स्वर रहित मन्त्र

गावो भगो गाव इन्द्रो म इछाद्गावः सोमस्य प्रथमस्य भक्षः। इमा या गावः स जनास इन्द्र इच्छामि हृदा मनसा चिदिन्द्रम् ॥


स्वर रहित पद पाठ

गावः । भगः । गावः ।‍ इन्द्रः । मे । इच्छात् । गावः । सोमस्य । प्रथमस्य । भक्षः । इमाः । याः । गावः । सः । जनासः । इन्द्रः । इच्छामि । हृदा । मनसा । चित् । इन्द्रम् ॥२१.५॥