ऋषिः - ब्रह्मा

देवता - गोसमूहः

छन्दः - जगती

स्वरः - गोसमूह सूक्त

PreviousNext
स्वर सहित मन्त्र

न ता अर्वा॑ रे॒णुक॑काटोऽश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि। उ॑रुगा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥

स्वर सहित पद पाठ

न । ताः । अर्वा॑ । रे॒णुक॑ऽकाटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒त्रम् । उप॑ । य॒न्ति॒ । ताः । अ॒भि । उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ताः । अनु॑ । गाव॑ः । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑नः ॥२१.४॥


स्वर रहित मन्त्र

न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि। उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥


स्वर रहित पद पाठ

न । ताः । अर्वा । रेणुकऽकाटः । अश्नुते । न । संस्कृतत्रम् । उप । यन्ति । ताः । अभि । उरुऽगायम् । अभयम् । तस्य । ताः । अनु । गावः । मर्तस्य । वि । चरन्ति । यज्वनः ॥२१.४॥