ऋषिः - ब्रह्मा
देवता - गोसमूहः
छन्दः - त्रिष्टुप्
स्वरः - गोसमूह सूक्त
न । ताः । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क॑रः । न । आ॒सा॒म् । आ॒मि॒त्रः । व्य॒थिः । आ । द॒ध॒र्ष॒ति॒ । दे॒वान् । च॒ । याभि॑ः । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभि॑ः । स॒च॒ते॒ । गोऽप॑तिः । स॒ह ॥२१.३॥
न । ताः । नशन्ति । न । दभाति । तस्करः । न । आसाम् । आमित्रः । व्यथिः । आ । दधर्षति । देवान् । च । याभिः । यजते । ददाति । च । ज्योक् । इत् । ताभिः । सचते । गोऽपतिः । सह ॥२१.३॥