atharvaveda/4/21/2
ऋषिः - ब्रह्मा
देवता - गोसमूहः
छन्दः - जगती
स्वरः - गोसमूह सूक्त
इन्द्र॑: । यज्व॑ने । गृ॒ण॒ते । च॒ । शिक्ष॑ते । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ । भूय॑:ऽभूय: । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अ॒भि॒न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥२१.२॥
इन्द्र: । यज्वने । गृणते । च । शिक्षते । उप । इत् । ददाति । न । स्वम् । मुषायति । भूय:ऽभूय: । रयिम् । इत् । अस्य । वर्धयन् । अभिन्ने । खिल्ये । नि । दधाति । देवऽयुम् ॥२१.२॥